Dhootpapeshwar(धूतपापेश्वर)
धूतपापा और पंचनद तीर्थ की पावन कथा का सारांश :
- तपस्वी वेदशिरा और अप्सरा शुचि : महर्षि वेदशिरा (भृगुवंशीय) कठोर तपस्या कर रहे थे। एक दिन, अप्सरा शुचि उनके सामने आई, जिसे देखकर मुनि का मन विचलित हो गया और उनका वीर्य स्खलित हो गया। शुचि ने डरकर क्षमा माँगी, तब मुनि ने उसे वीर्य को ग्रहण करने को कहा, जिससे एक पवित्र कन्या का जन्म हुआ।
- धूतपापा का जन्म और पालन : शुचि ने उस कन्या को जन्म दिया और उसे वेदशिरा के आश्रम में छोड़ दिया। मुनि ने कन्या का नाम "धूतपापा" (पापों को धोने वाली) रखा और उसे पाला-पोसा। धूतपापा बड़ी होकर अत्यंत सुंदर और गुणवान बनी।
- धूतपापा की तपस्या : जब वेदशिरा ने धूतपापा से विवाह के बारे में पूछा, तो उसने सर्वगुण संपन्न पति की इच्छा व्यक्त की। पिता ने बताया कि ऐसा पति केवल तपस्या से प्राप्त हो सकता है। धूतपापा ने कठोर तप शुरू किया: वर्षा में भीगकर, गर्मी में पंचाग्नि साधना करते हुए, सर्दी में जल में खड़ी रहकर। ब्रह्मा प्रसन्न हुए और उसे सभी तीर्थों से पवित्र होने का वरदान दिया।
- धर्मराज का शाप और नदी का रूप : एक दिन, धर्मराज (यमराज) ने धूतपापा को देखकर उससे विवाह का प्रस्ताव रखा। धूतपापा ने इनकार किया, तो धर्मराज ने जबरदस्ती करनी चाही। इस पर धूतपापा ने उन्हें "नद बन जाने" का शाप दिया, और धर्मराज ने उसे "पत्थर बनने" का शाप दिया। वेदशिरा ने बाद में इसे संशोधित किया: धर्मराज धर्मनद (नदी) बने। धूतपापा चंद्रकांत शिला बनी, जो चंद्रमा की किरणों से पिघलकर नदी (धूतपापा नदी) बन गई।
- पंचनद तीर्थ की उत्पत्ति : काशी में पाँच पवित्र नदियाँ मिलीं: गंगा (भागीरथी), यमुना, सरस्वती, धूतपापा और किरणा (सूर्यदेव के तप से उत्पन्न)। इनके संगम को "पंचनद तीर्थ" कहा गया, जो सभी पापों को नष्ट करता है।
- पंचनद तीर्थ की महिमा : यहाँ स्नान करने से: महापापों से मुक्ति मिलती है। प्रयाग के माघ स्नान का फल एक दिन में मिलता है। पितरों को अक्षय तृप्ति प्राप्त होती है। वंध्या स्त्री को संतान की प्राप्ति होती है। मोक्ष का मार्ग सुलभ होता है।
स्कन्दपुराण : काशीखण्ड
॥ श्रीनारायण उवाच ॥
शृणु लक्ष्मि! धर्मपत्न्याः पातिव्रत्यपरायणाम् । कथां काशीपंचगंगातीर्थकरीं सुपावनीम् ॥ १ ॥
काश्यां पञ्चनदं तीर्थमध्यास भगवान् स्वयम् । भुर्भुवःस्वःप्रदेशेषु तीर्थं पञ्चनदं परम् ॥ २ ॥
स्थितः कृष्णः स्वयं तत्र तीर्थे पञ्चनदे परे । पुरा वेदशिरा नाम महासंयमतापसः ॥ ३ ॥
भृगुवंशमुनिरासीत् तपस्यानिरतः सदा । युवानं तं समालोक्य शुचिनाम्न्यप्सरोवरा ॥ ४ ॥
चकमे तेन ऋषिणा स्खलितं सा पपौ शुचिः । शुचिं वेदशिराः प्राह धार्मिकं दोषवर्जितम् ॥ ५ ॥
शृणु साध्वि! यौवनस्य विकृतिः सर्वदेहिषु । जायते सा न दोषाय कामवर्जितदेहिनः ॥ ६ ॥
स्वाभाविकं निर्मनस्त्वं धातूनां स्खलनं सति । तपोभंगाय नैवाऽस्ति स्नानेन शुद्धिरिष्यते ॥ ७ ॥
किन्तु ते मनसि त्वस्ति भावना बीजलब्धये । तेन धातुः स्रवितो मे विना मैथुनसंचरात् ॥ ८ ॥
तस्माद् धारय गर्भे त्व यं त्वं पीतवती प्रिये । देवपत्नी यथेष्टं वै कर्तुं शक्नोति सर्वथा ॥ ९ ॥
अमोघबीजा मुनयो मम बीजात्तव प्रिये । कन्यारत्नं वैष्णवाग्र्यं भविष्यति पतिव्रतम् ॥१०॥
इत्युक्ता साऽऽश्रमे तस्य तस्थौ प्रसववाञ्छया । अथ कालेन दिव्यस्त्रीकन्यारत्नमजीजनत् ॥ ११ ॥
अतीव भासुरं नेत्रानन्ददं रूपशेवधिम् । दत्वा पुत्रीं ययौ स्वर्गं शुचिनाम्न्यप्सरोवरा ॥ १२॥
तां तु वेदशिरा कन्यां स्नेहेन समवर्धयत् । हरिण्याः स्वाश्रमस्थायाः स्तन्येन पयसा मुनिः ॥ १३॥
मुनिर्नाम ददौ तस्या धूतपापेति सार्थकम् । दशवर्षोत्तरां कन्यां दृष्ट्वा पप्रच्छ तां मुनिः ॥ १४॥
कस्मै दद्यां वराय त्वां त्वमेवास्याहि ये शुभे । श्रुत्वा पितुः शुभं वाक्यं प्रोवाच भक्तिमानसा ॥ १५॥
सर्वेभ्योऽतिपवित्रो यो यः सर्वेषां नमस्कृतः । सर्वे यमभिलष्यन्ति यस्मात् सर्वसुखोदयः ॥ १६॥
कदाचिद्यो न नश्येद्वै यः सदैवानुवर्तते । इहामुत्रापि यो रक्षेन्महापद्भ्यः स्वरूपवान् ॥ १७॥
सर्वे मनोरथा यस्मात् प्रपूर्णाः संभवन्ति मे । दिने दिनेऽतिसौभाग्यं वर्धते यस्य सेवया ॥ १८॥
नैरन्तर्येण यत्पार्श्वे भय कस्यापि नैव मे । यन्नामग्रहणाच्चापि बाधा लीयन्त उत्कटाः ॥ १ ९॥
यदाधारेण तिष्ठन्ति ब्रह्माण्डान्यपि सृष्टिषु । एवमाद्या गुणा यत्र तस्मै मां देहि शर्मणे ॥२०॥
एतच्छ्रुत्वा मुनिश्चातिप्रसन्नो मुदमाप ह । धन्योऽस्मि यद्गृहे पुत्री धार्मिकी कुलतारिणी ॥२१ ॥
धूतपापा सार्थनाम्नी धन्येयं ज्ञानशेवधिः । अनया वर्णितः कोऽत्र भवेद्वै सद्गुणोदयः ॥२२॥
वरं तं धर्मदेवाख्यं मन्ये तस्मै ददामि ताम् । परं स सुखलभ्यो न सर्वसद्गुणमण्डनः ॥२३॥
तपःपणेन स क्रय्यो बहुपुण्येन वा क्वचित् । विचार्येत्थं सुतां प्राह कन्ये वरोऽस्ति तादृशः ॥२४॥
नार्थभारैः स सुलभो न कौलीन्येन कन्यके । न चैश्वर्यबलेनापि न बुद्ध्या न पराक्रमैः ॥२५॥
मनःशुद्ध्येन्द्रियशुद्ध्या तपसा दमनेन च । लभ्यते स महाप्राज्ञो नान्यथा सदृशः पतिः ॥२६॥
इतिपितृवचः श्रुत्वा पितरं प्रणिपत्य च । अनुज्ञां तु पितुर्लब्ध्वा तेपे तपः सुदारुणम् ॥२७॥
कठोरं वर्ष्म संसाध्य वर्षाधारासु सा स्थिता । शिलासु हिमवातेषु न चकम्पे मनागपि ॥२८॥
पञ्चाग्नीन् परिधायाऽपि तपस्यति तपोवने । जलाभिलाषिणी बाला जलं नैवाऽपिबत् तदा ॥२९॥
अपास्तभोगसंपर्का वाय्वाहाराऽभवत् सती । कृशाऽतितपसा क्षामा दिदीपे तत्तनुस्तराम् ॥३०॥
ब्रह्मा त्वागत्य तामाह प्रसन्नोऽस्मि वरं वृणु । धूतपापा नमस्कृत्योवाच श्रीपरमेष्ठिनम् ॥३ १ ॥
पितामह पवित्रेभ्यः कुरु मामतिपावनीम् । तुष्टो ब्रह्मा च तामाह संपवित्राणि यानि वै ॥३२॥
तेभ्योऽधिकं सुपावित्र्यमेधिमद्वरदानतः । तिस्रः कोट्योऽर्धकोटि च सन्ति तीर्थानि कन्यके ॥३३ ॥
अष्टषष्टिप्रधानानि श्रेष्ठानि तेषु सन्ति च । तानि सर्वाणि तीर्थानि त्वत्तनौ प्रतिलोम वै ॥ ३४॥
वसन्तु मम वाक्येन भव सर्वातिपावनी । कल्पान्तरे तु मूर्तिस्त्वं भविष्यसि न संशयः ॥ ३५॥
धर्मदेवप्रिया पत्नी हरेर्माता तु दक्षजा । इत्युक्त्वाऽन्तर्दधे ब्रह्मा ययौ सापि पितुर्गृहम् ॥३६॥
ज्ञात्वा वेदशिरा सर्वं तुतोष तपसा मुहुः । सापि नित्यं धर्ममूर्तिं संविधाय चतुर्भुजाम् ॥३७॥
षोडशवस्तुभिर्दिव्यां प्रातर्नित्यमपूजयत् । पातिव्रत्येन धर्मेण सर्वं वृषाय चार्पयत् ॥ ३८॥
स्वप्ने धर्मं धूतपापा ददर्श नित्यमेव सा । कदाचिद् धर्मदेवः सः साक्षादागत्य तं मुनिम् ॥ ३९ ॥
ययाचे कन्यकां योग्यां मुनिस्तस्मै ददौ ततः । कन्या चन्द्रसमा कान्तिमती धर्मं प्रसेवते ॥४०॥
अथ तत्र महाक्षेत्रे धूतपापा महासती । अदृश्येन स्वरूपेण धर्मगृहे विराजते ॥४१ ॥
द्वितीयेन स्वरूपेण चन्द्रकान्तमणिः स्वयम् । भूत्वा जले तु गंगाया राजते सा तपस्विनी ॥।४२॥
धर्मदेवोऽपि तु धर्मनदो भूत्वा जलान्तरे । चन्द्रकान्तशिलायुक्तो राजते वै दिवानिशम् ॥ ४३॥
धर्मस्य मन्दिरे दिव्यस्वरूपेणापि राजते । एवं काश्यां तु गंगायां धर्मो धर्मनदोऽभवत् ॥ ४४॥
धूतपापाऽभवत् स्वल्पा नदी चापि नदान्विता । अथ सूर्यः समागत्य तप उग्रं चचार ह ॥४५॥
किरणेभ्यः प्रववृते महास्वेदजसन्ततिः । ततः सा किरणा नाम नदी जाताऽतिपावनी ॥४६॥
अथ तत्र समायाता सरस्वती महासती । यमुना गंगया युक्ता तत्र तिष्ठति पावनी ॥४७॥
किरणा धूतपापा च यमी गंगा सरस्वती । पञ्चनद्यो महासत्यो नदो धर्मनदाह्वयः ॥४८॥
मिलिताः सर्व एवैतास्तीर्थं पञ्चनदात्मकम् । पञ्चगंगेतिनाम्ना वै प्रसिद्धं सर्वथाऽभवत् ॥४९॥
तत्र स्नात्वा जलं पीत्वा मुच्यते सर्वबन्धनात् । दत्वा पञ्चनदे दानं कृत्वा वै पितृतर्पणम् ॥५०॥
बिन्दुमाधवमभ्यर्च्य न भूयो जन्मभाग् भवेत् । पञ्चकूर्चेन पीतेन या तु शुद्धिरुदाहृता ॥५१ ॥
सा शुद्धिः श्रद्धया प्राश्य बिन्दुं पाञ्चनदाम्भसः । पुरा धर्मनदं नाम ततश्च धूतपापकम् ॥५२॥
ततो वै बिन्दुतीर्थं तत् ततः पञ्चनदाह्वयम् । गोभूतिलहिरण्याऽश्ववासोऽन्नस्रग्विभूषणम् ॥५३॥
यत्किंचिद् बिन्दुतीर्थेऽत्र दत्त्वाऽक्षयमवाप्नुयात् । तत्राऽऽगत्य वह्निबिन्दुस्तपस्तेपेऽतिदारुणम् ॥।५४॥
कृष्णनारायणः साक्षादागत्याह वरं वृणु । अग्निबिन्दुर्हरिं प्राह वसाऽत्र मम सन्निधौ ॥५५॥
तथाऽस्त्विति हरिः प्राह निवासं चाऽकरोन्मुदा । बिन्दुमाधवसंज्ञोऽहं वसामि तत्र पद्मजे ॥५६॥
धर्मदेवगृहे पुत्रो बिन्दुमाधवसंज्ञकः । नित्यं वसामि दिव्योऽहं धूतपापासुपुत्रकः ॥।५७॥
धूतपापा जननी मे पिता धर्मो मम प्रिये । अहं माधवरूपश्च वसामो बिन्दुतीर्थके ॥५८॥
वसुस्वरूपिणी लक्ष्मीलक्ष्मीर्निर्वाणसंज्ञिका । धर्मपार्श्वे स्थिता सा मे हृदि पञ्चनदेऽप्यहम् ॥५९॥
व्रतैः संशोधिते देहे धर्मो वसति नित्यशः । कृष्णश्चापि धूतपापा श्रीश्च वसन्ति सर्वथा ॥६ ०॥
अर्थकामौ सनिर्वाणौ तत्र वसतः सर्वदा । आदिमाधवनामाऽहं ततश्चानन्तमाधवः ॥६१ ॥
श्रीदमाधवसंज्ञोऽपि ततो वै बिन्दुमाधवः । एवं नामभिः सर्वेशः स्थास्याम्यानन्दकानने ॥६२॥
मम माता धर्मपत्नी धूतपापा पतिव्रता । श्रीधर्मं सेवते नित्यं पातिव्रत्यपरायणा ॥६३॥
पञ्चनदे महापुण्ये दिव्ये श्रीधर्ममन्दिरे । नरा नार्यश्च तत्क्षेत्रे स्नात्वा कृत्वा वृषार्चनम् ॥६४॥
धूतपापार्चनं कृत्वा माधवस्य ममार्चनम् । धर्मप्रतिज्ञां कृत्वा च चातुर्मास्यव्रतादिकम् ॥६५॥
कृत्वा कार्तिकदानादि व्रती मोक्षमवाप्नुयात्। । धर्मपत्न्यस्तथा तत्र वसन्ति धर्मसेवने ॥६६॥
द्वितीयेन स्वरूपेण सर्वा विश्वस्य मातरः । श्रद्धालक्ष्मीर्धृतिस्तुष्टिः पुष्टिर्मेधा क्रिया तथा ॥६७॥
बुद्धिर्लज्जा वपुः शान्तिः सिद्धिः कीर्तिस्त्रयोदश । ताश्च सर्वा धर्मसेवां कुर्वन्त्येव सह स्थिता ॥६८ ॥
पातिव्रत्यपराः सर्वा यत्र धर्मस्तु तत्र ताः । धूतपापा विशेषेण सेवते श्रीवृषं पतिम् ॥६९॥
प्रातः स्नात्वा तु सा देवी प्रातः स्नापयति वृषम् । वस्त्रालंकारकस्तूरीचन्दनाक्षतकुंकुमैः ॥७० ॥
पूजयित्वा ततो देवी नीराजयति तं पतिम् । प्रदक्षिणां स्तुतिं कृत्वा नत्वा तत्पादयोः सती ॥७१ ॥
गंगाजलेन धर्मस्य प्रक्षाल्य चरणावुभौ । आचमनामृतं शुद्धं पीत्वा दत्वा सुमाञ्जलिम् ॥७२॥
ततो धर्माय षट्पञ्चाषन्मिष्टान्नानि भोजने । सव्यञ्जनानि रस्याऽऽद्यपेययुक्तानि सा प्रिया ॥७३ ॥
समर्पयति ताम्बूलं करोति देहमर्दनम् । नृत्यं करोति धर्माग्रे कीर्तिं करोति शार्ङ्गिणः ॥७४॥
नरनारायणगाथां करोति धर्मदेशतः । सपत्नीनां ततः सेवां श्रद्धादीनां करोति सा ॥७५॥
कृष्णनारायणभक्तिं धर्माज्ञया करोत्यपि । एकदा श्रीधर्मदेवश्चातुर्मास्यव्रते स्थितः ॥७६ ॥
लक्ष्मीनारायणसंहितायाः पारायणं शुभम् । वाचयामास सततं तीर्थे पञ्चनदे गृहे ॥७७॥
ऋषयो मुनयो देवाः पितरो मानवाः स्त्रियः । चतुर्दशभुवां संस्थाश्चायातास्तत्र तूत्सवे ॥७८॥
नद्यो नदाश्च तीर्थानि क्षेत्राणि विविधान्यपि । सर्वेषां सुनिवासादि धूतपापा चकार ह ॥७९॥
धूतपापा सती प्राह यद्यहं धर्मचारिणी । धर्मपत्नी धर्मधर्त्री धर्मपतिव्रतार्थिनी ॥८० ॥
तदा दिव्यं सुनगरं पंचाशत्क्रोशविस्तृतम् । ब्रह्मेन्द्रशंभुमुख्यानां सम्पदो यास्तु सन्ति वै ॥८ १ ॥
ततोऽधिकानि मे सौधे खाद्यपेयानि सन्ति वै । यानवाहनभोग्यानि शय्याशृंगारकाणि च ॥८२॥
पात्राणि रसभोज्यानि दृश्यानि विविधानि च । वह्निशुद्धांशुकादीनि सन्तु मत्पतिसद्गृहे ॥८३ ॥
दधिकुल्या घृतकुल्या मधुकुल्याः सिताद्रयः । पयःकुल्यास्तथा दासा दास्यः सन्तु च लक्षशः ॥८४॥
इतिसंकल्पितं स्मृत्वा धर्मस्य चरणाम्बुजम् । तावद् दिव्या बहुविधाः स्मृद्धयः क्षणतोऽभवन् ॥८५॥
स्वर्णरत्नविभूषाश्च हीरकाद्या मणिव्रजाः । समुद्भूता धूतपापासंकल्पात् तन्नदान्तिके ॥८६ ॥
सुधर्मासदृशी दिव्या सभा जाता क्षणात् प्रिये । दुर्गा सरस्वती लक्ष्मीः सावित्री राधिका दया ॥८७॥
जया ललिता माणिक्या रमा पद्मा च पार्वती । प्रभा हंसा च मनसा मंजुला श्रीश्च पद्मिनी ॥।८८॥
शान्तिः शान्ता हेमलता देवी मुक्ता च मौक्तिका । आसन् वै सेविका धर्मगृहे तत्र कथोत्सवे ॥८९॥
लक्ष्मीनारायणसंहिताकथाश्रवणकारिणाम् । स्वागतादिमहत्कार्ये भोज्यपेयसमर्पिकाः ॥९०॥
कार्तिके च प्रबोधन्यां कथान्ते पूजनं परम् । धर्मदेवस्य तैः सर्वैः सर्वाभिश्च कृतं महत् ॥९१॥
अनन्तपुण्यदं रत्नस्वर्णहीरकवस्तुभिः । धर्मोऽपि दक्षिणाः सर्वा ददौ ताभ्यो मुदान्वितः ॥९२॥
देवेभ्यः श्रोतृवर्गेभ्यो विप्रेभ्योऽतिधनं ददौ । तत्र यज्ञे समायातः कृष्णनारायणो हरिः ॥९३॥
कंभरा च महालक्ष्मीर्गोपालकृष्ण आगतौ । विमानेन तदा सर्वैः प्रत्यक्षे पुरुषोत्तमे ॥९४॥
पुष्पवृष्टिः कृता दिव्या जयकारोऽभवन्मुहुः । पितृभ्यां सहितः कृष्णनारायणो महामखे ॥९५॥
दशांशहवनं चक्रे धर्माज्ञयाऽतिभावतः । यज्ञं समाप्य विधिवत् कृत्वाऽवभृथमन्तिमम् ॥९६॥
धर्मदेवो ददौ दिव्यां दक्षिणां च द्विजातये । काशीराजो मैथिलेशः साकेतेशः कलिंगराट् ॥९७॥
सौराष्ट्रेशो मरुस्वामी सिन्धुभूपो निपालराट् । कुरुक्ष्मेशः श्वेतभूपः प्राग्ज्योतिर्भूप आर्चयन् ॥९८॥
धर्मदेवं भूसुराँश्च साधून् साध्वीः सहस्रशः । स्वर्णहीरकरूप्याणि ददुर्वस्त्राणि दक्षिणाः ॥९९॥
व्यसर्जयत् ततः सर्वान् भोजयित्वा समर्च्य च । धर्मदेवः परीहारं च स्वतेजसा सती ॥१००॥
धूतपापा जलं हस्ते गृह्याऽसंकल्पयन् मुदा । विद्यहं धर्मदेवस्य स्वामिनो मे प्रतुष्टये ॥ १०१ ॥
सर्वं क्लृप्तवती तर्हि पत्युर्भक्तेर्बलेन मे । अदृश्यं भवतु सौधादिकं स्मृद्धं नदे मयि ॥ १०२॥
इति संकल्पिते तूर्णं क्षणात् सर्वं तिरोऽभवत् । जग्मुराश्चर्यमति वै देवाद्याः कोटिशो जनाः ॥ १०३॥
पातिव्रत्यप्रतापं तं ज्ञात्वा शशंसुरादरात् । तां सतीं धूतपापां वै देव्यः शशंसुरीश्वरीम् ॥ १०४॥
एवं पञ्चनदं तीर्थं धर्मदेवाश्रमात्मकम् । पावनं सर्वदेवानां धूतपापाप्रभावतः ॥ १०५॥
धूतपापापतिव्रतबलं ते कथितं प्रिये । पठनाच्छ्रवणाच्चास्य मुक्तिर्भुक्तिर्भवेत्तथा ॥ १०६॥
पातिव्रत्यात्मको धर्मो भवेद्वै मोक्षदो दृढः । सर्वसम्पत्प्रदश्चापि धर्मभक्तिप्रदस्तथा ॥ १०७॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने वेदशिरसः ऋषेः शुचिनाम्न्यप्सरसि जाताया धूतपापाख्यकन्याया धर्मदेवपतिप्राप्त्या मूर्तिदेवीत्वं, पञ्चनदे संहिताकथाप्रसंगे पातिव्रत्यबलेन पंचाशत्क्रोशेषु नगररचना, देवादिभूपादिमानवादीनामागमः, यज्ञोऽवभृथं चेत्यादि, नूत्ननगरस्मृद्धितिरोभावचमत्कारश्चेतिनिरूपणनामा षट्षष्ट्यधिकचतुश्शततमोऽध्यायः ॥ ४६६ ॥
॥ वसुरुवाच ॥
अथान्यते प्रवक्ष्यामि गंगामाहात्म्यमुत्तमम् ॥ वाराणसीस्थितं भद्रे भुक्तिमुक्तिफलप्रदम् ॥ १ ॥
अविमुक्ते कृतं यत्तु तदेवाक्षयतां व्रजेत् ॥ अविमुक्तगतः कश्चिन्नरकं नैति किल्बिषी ॥ २ ॥
अविमुक्तकृतं यत्तु पापं वज्रं भवेच्छुभे ॥ त्रैलोक्ये यानि तीर्थानि मोक्षदानि च कृत्स्नशः ॥ ३ ॥
सेवंते सततं गंगां काश्यामुत्तरवाहिनीम् ॥ दशाश्वमेधे यः स्नात्वा दृष्ट्वा विश्वेश्वरं शिवम् ॥ ४ ॥
सद्यो निष्पातको भूत्वा मुच्यते भवबंधनात् ॥ गंगा हि सर्वतः पुण्या ब्रह्महत्यापहारिणी ॥ ५ ॥
वाराणस्या विशेषेण यत्र चोत्तरवाहिनी ॥ वरणायास्तथास्याश्च जाह्नव्याः संगमे नरः ॥ ६ ॥
स्नात्वा माघे च मुच्यंते महापापादिपातकैः ॥ सर्वलोकेषु तीर्थानि यानि ख्यातानि तानि च ॥ ८ ॥
सर्वाण्येतानि सुभगे काश्यामायांति जाह्नवीम् ॥ नित्यं पर्वसु सर्वेषु पुण्यैश्चायतनैः सह ॥ ९ ॥
उत्तराभिमुखीं गंगां काश्यामायांति चान्वहम् ॥ महापातकदोषादिदुष्टानां स्पर्शनोद्भवम् ॥ १० ॥
व्यपोहितुं स्वपापं च जंतुपापविमुक्तये ॥ जन्मांतरशतेनापि सत्कर्मनिरतस्य च ॥ ११ ॥
अन्यत्र सुधिया भद्रे मोक्षो लभ्येत वा न वा ॥ एकेन जन्मना त्वत्र गंगायां मरणेन च ॥ १२ ॥
मोक्षस्तु लभ्यते काश्यां नरेणावलितात्मना ॥ ख्यातो धर्मनदो नाम ह्रदस्तत्रैव सुंदरि ॥ १३ ॥
धर्म एव स्वरूपेण महापातकनाशनः ॥ धूली च धूतपापा सा सर्वतीर्थमयी शुभा ॥ १४ ॥
हरेन्महापापसंघान्कूलजानिव पादपान् ॥ किरणा धूतपापा च पुण्यतोया सरस्वती ॥ १५ ॥
गंगा च यमुना चैव पंच नद्यः प्रकीर्तिताः ॥ अतः पञ्चनदं नाम तीर्थं त्रैलोक्यविश्रुतम् ॥ १६ ॥
तत्राप्लुतो न गृह्णीयाद्देहितां पांचभौतिकीम् ॥ अस्मिन्पंचनदीनां तु संगमेऽघौघभेदने ॥ १७ ॥
तत्फलं स्याद्दिनैकेन काश्यां पंचनदे ध्रुवम् ॥ स्नात्वा पंचनदे तीर्थे कृत्वा च पितृतर्पणम् ॥ १९ ॥
विष्णुं माधवमभ्यर्च्य न भूयो जन्मभाग्भवेत् ॥ यावत्संख्यास्तिला दत्ताः पितृभ्यो जलतर्पणे ॥ २० ॥
पुण्ये पञ्चनदे तीर्थे तृप्तिः स्यात्तावदाब्दिकी ॥ श्रद्धया यैः कृतं श्राद्धं तीर्थे पञ्चनदे शुभे ॥ २१ ॥
तेषां पितामहा मुक्तानानायोनिगता अपि ॥ यमलोके पितृगणैर्गार्थयं परिगीयते ॥ २२ ॥
महिमानं पांचनदं दृष्ट्वा श्राद्धविधानतः ॥ अस्माकमपि वंश्योऽत्र कश्चिच्छ्राद्धं करिष्यति ॥ २३ ॥
काश्यां पञ्चनदं प्राप्य येन मुच्यामहे वयम् ॥ तत्र पञ्चनदे तीर्थे यत्किंचिद्दीयते वसु ॥ २४ ॥
कल्पक्षयेऽपि न भवेत्तस्य पुण्यस्य संक्षयः ॥ वंध्यापि वर्षपर्यंतं स्नात्वा पञ्चनदे ह्रदे ॥ २५ ॥
महाफलमवाप्नोति स्नापयित्वेह दिक्श्रुताम् ॥ पञ्चामृतानां कलशैरष्टोत्तरशतोन्मितैः ॥ २७ ॥
तुलितोऽधिकतां प्राप्तो बिंदुः पांचनदस्तु सः ॥ पंचकूर्चेन पीतेन यात्र शुद्धिरुदाहृता ॥ २८ ॥
सा शुद्धिः श्रद्धया प्राश्य बिन्दुं पञ्चनदांभसाम् ॥ भवेदथ ह्रदस्नानाद्राजसूयाश्वमेधयोः ॥ २९ ॥
आब्रह्मपट्टिकाद्वंद्वान्मुक्तिः पञ्चनदांबुभिः ॥ स्वर्गनद्यभिषेकोऽपि न तथा संमतः सताम् ॥ ३१ ॥
अभिषेकः पांचनदो यथानन्यो वरप्रदः ॥ शतं समास्तपस्तप्त्वा कृते यत्प्राप्यते फलम् ॥ ३२ ॥
तत्कार्तिके पञ्चन्दे सकृत्स्नानेन लभ्यते ॥ इष्टापूर्तेषु धर्मेषु यावज्जन्मकृतेषु यत् ॥ ३३ ॥
यदेकस्नानतो नश्येदघं जन्मत्रयार्जितम् ॥ कृते धर्मंनदं नाम त्रेतायां धूतपातकम् ॥ ३५ ॥
द्वापरे बिंदुतीर्थँ च कलौ पञ्चनदं स्मृतम् ॥ बिंदुतीर्थे नरो दत्वा कांचनं कृष्णकलोन्मितम् ॥ ३६ ॥
न दरिद्रो भवेत्क्वापि न सुखेन वियुज्यते ॥ गोभूतिलहिरण्याश्ववासोन्नस्थानभूषणम् ॥ ३७ ॥
कोऽपि वर्णयितुं शक्तश्चतुर्वर्गशुभौकसः ॥ इति ते कथितं भद्रे काशीमाहात्म्यमुत्तमम् ॥ ४० ॥
सुखदं मोक्षदं नॄणां महापातकनाशनम् ॥ ब्रह्मघ्नो मधुपः स्वर्णस्तेयी च गुरुतल्पगः ॥ ४१ ॥
महापातकयुक्तोऽपि संयुक्तोऽप्युपपातकैः ॥ अविमुक्तस्य माहात्म्यश्रवणाच्छुद्धिमाप्नुयात् ॥ ४२ ॥
ब्राह्मणो वेदविद्वान्स्यात्क्षत्त्रियो विजयी रणे ॥ वैश्यो धनपतिः शूद्रो विष्णुभक्तसमागमी ॥ ४३ ॥
तत्सर्वं समवाप्नोति पठनाच्छ्रवणादपि ॥ विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ॥ ४५ ॥
भार्यार्थी लभते भार्यां सुतार्थी पुत्रमाप्नुयात् ॥ अविमुक्तस्य माहात्म्यं मया ते परिकीर्तितम् ॥ ४६ ॥
विष्णुभक्ताय दातव्यं शिवभक्तिरताय च ॥ जगज्जननिभक्ताय सूर्यहेरंबसेविने ॥ ४७ ॥
गुरुशुश्रूषवे दत्वा तीर्थास्नानफलं लभेत् ॥
शठाय निंदकायापि गोविप्रसुरविद्विषे ॥ गुरुद्रुहेऽसूयकाय दत्वा मृत्युमवाप्नुयात् ॥ ४८ ॥
यहाँ तक कि यदि कोई ब्रह्महत्या, मद्यपान, स्वर्ण की चोरी, गुरु पत्नी का अपहरण या अन्य किसी महापाप से ग्रसित व्यक्ति भी इस अविमुक्त क्षेत्र (काशी) के माहात्म्य को श्रवण करता है, तो वह शुद्ध हो जाता है। यदि कोई ब्राह्मण इस तीर्थ का माहात्म्य सुनता या पढ़ता है, तो वह वेदों का ज्ञाता बन जाता है। क्षत्रिय युद्ध में विजयी, वैश्य धनपति, और शूद्र भगवान विष्णु का भक्त बन जाता है। जो भी भक्त श्रवण और पठन करता है, उसे सभी यज्ञों का पुण्य, समस्त तीर्थों के दर्शन का लाभ प्राप्त हो जाता है। विद्यार्थी को विद्या, धनार्थी को धन, पत्नी चाहने वाले को पत्नी, और संतान चाहने वाले को संतान प्राप्त होती है। इस अविमुक्त क्षेत्र (काशी) के महात्म्य को मैंने तुम्हें विस्तार से बताया। इसका प्रसार केवल विष्णु भक्तों, शिव भक्तों, जगत जननी (माता) के भक्तों, सूर्य उपासकों और गणपति भक्तों को ही करना चाहिए। जो इसे गुरु की सेवा में समर्पित करता है, वह तीर्थ स्नान का पुण्य प्राप्त करता है। किन्तु जो दुष्ट, निंदक, गौ, ब्राह्मण, देवता और वेदों से द्वेष रखने वाला हो, या गुरु द्रोही व ईर्ष्यालु हो— उसे यदि यह ज्ञान दिया जाता है, तो वह मृत्यु को प्राप्त होता है।
GPS LOCATION OF THIS TEMPLE CLICK HERE
EXACT GPS : 25.31559314133816, 83.0183631884858
From : Mr. Sudhanshu Kumar Pandey - Kamakhya, Kashi
प्रेषक : श्री सुधांशु कुमार पांडेय - कामाख्या, काशी