Harikeshwar (हरिकेशेश्वर)

0

Harikeshwar

हरिकेशेश्वर

शिवलिंगों की असंख्यता के कारण सम्पूर्ण पंचक्रोशात्मक काशी को आनंदवन कहा जाता है। जिस प्रकार वन के वृक्षों की गणना असंभव है। उसी प्रकार काशी में शिवलिंग की गणना असंभव है। आनंददायक वन काशी में, बहुत सारे वन थे जिनमें से कुछ हरिकेशवन (जंगमबाड़ी के पास), अशोकवन (बुलानाला के पास), महावन (राजघाट क्षेत्र के पास), दारुवन (वृद्धकाल क्षेत्र), भद्रवन (भदैनी के पास) इत्यादि प्रमुख हैं। हरिकेशवन के अधिष्ठाता देवता हरिकेशेश्वर हैं।

स्कन्दपुराण : काशीखण्ड

कश्यपेशं नमस्कृत्य हरिकेशवनं ततः । वैद्यनाथं ततो दृष्ट्वा ध्रुवेशमथ वीक्ष्य च ।।
भक्त को कश्यपेश और हरिकेशवन (तथा उस वन में स्थित हरिकेशेश्वर) को प्रणाम करना चाहिए। वैद्यनाथ के दर्शन के बाद उन्हें ध्रुवेश के दर्शन करने चाहिए।

दत्तात्रेयेश्वरं लिंगं तस्य पश्चिमतः शुभम् । तद्याम्यां हरिकेशेशो गोकर्णेशस्ततः परम् ।।

सरस्तदग्रे पापघ्नं तत्पश्चाच्च ध्रुवेश्वरः । तदग्रे धुवकुंडं च पितृप्रीतिकरं परम् ।।

...इसके पश्चिम में भव्य दत्तात्रेयेश्वर लिंग है। उसके दक्षिण में हरिकेशेश्वर है। गोकर्णेश्वर उससे भी परे है। इसके आगे पापों का नाश करने वाली झील है । इसके पीछे ध्रुवेश्वर हैं। उसके सामने ध्रुवकुंड है जो पितरों के लिए अत्यंत रमणीय है।

लिङ्गपुराणम्_-_पूर्वभागः/अध्यायः_६०

यथा प्रभाकरो दीपो गृहमध्येऽवलंबितः॥ पार्श्वतोर्ध्वामधश्चैव तमो नाशयते समम्॥ १७ ॥

तद्वत्सहस्रकिरणो ग्रहराजो जगत्प्रभुः॥ सूर्यो गोभिर्जगत्सर्वमादीपयति सर्वतः॥ १८ ॥

रवे रश्मिसहस्रं यत्प्राङ्मया समुदाहृतम्॥ तेषां श्रेष्ठा पुनः सप्त रश्मयो ग्रहयोनयः॥ १९ ॥

सुषुम्नो हरि केशश्च विश्वकर्मा तथैव च॥ विश्वव्यचाः पुनश्चाद्यः सन्नद्धश्च ततः परः॥ २० ॥

सर्वावसुः पुनश्चान्यः स्वराडन्यः प्रकीर्तितः॥ सुषुम्नः सूर्य रश्मिस्तु दक्षिणां राशिमैधयत्॥ २१ ॥

न्यगूर्ध्वाधः प्रचारोऽस्य सुषुम्नः परिकीर्तितः॥ हरिकेशः पुरस्ताद्यो ऋक्षयोनिः प्रकीर्त्यते॥ २२ ॥

दक्षिणे विश्वकर्मा च रश्मिर्वर्धयते बुधम्॥ विश्वव्यचास्तु यः पश्चाच्छुक्रयोनिः स्मृतो बुधैः॥ २३ ॥

सन्नद्धश्च तु यो रश्मिः स योनि र्लोहितस्य तु॥ षष्ठः सर्वावसू रश्मिः स योनिस्तु बृहस्पतेः॥ २४ ॥

शनैश्चरं पुनश्चापि रश्मिराप्यायते स्वराट्र॥ एवं सूर्यप्रभावेन नक्षत्रग्रह तारकाः॥ २५ ॥

दृश्यंते दिवि ताः सर्वाः विश्वं चेदं पुनर्जगत्॥ न क्षीयंते यतस्तानि तस्मान्नक्षत्रता स्मृता॥ २६ ॥


लिङ्गपुराणम्_-_उत्तरभागः/अध्यायः_१२

सनत्कुमार उवाच॥

मूर्तयोऽष्टौ ममाचक्ष्व शंकरस्य महात्मनः॥ विश्वरूपस्य देवस्य गणेश्वर महामते॥ १२.१ ॥


नंदिकेश्वर उवाच॥

हंत ते कथयिष्यामि महिमानमुमापतेः॥ विश्वरूपस्य देवस्य सरोजभवसंभव॥ १२.२ ॥

भूरापोग्निर्मरुद् व्योम भास्करो दीक्षितः शशी॥ भवस्य मूर्तयः प्रोक्ताः शिवस्य परमेष्ठिनः॥ १२.३ ॥

खात्मेंदुवह्निसूर्यांभोधराः पवन इत्यपि॥ तस्याष्ट मूर्तयः प्रोक्ता देवदेवस्य धीमतः॥ १२.४ ॥

अग्निहोत्रेर्पिते तेन सूर्यात्मनि महात्मनि॥ तद्विभूतिस्तथा सर्वे देवास्तृप्यंति सर्वदाः॥ १२.५ ॥

वृक्षस्य मूलसेकेन यथा शाखोपशाखिकाः॥ तथा तस्यार्चया देवास्तथा स्युस्तद्विभूतयः॥ १२.६ ॥

तस्य द्वादशधा भिन्नं रूपं सूर्यात्मकं प्रभोः॥ सर्वदेवात्मकं याज्यं यजंति मुनिपुंगवाः॥ १२.७ ॥

अमृताख्या कला तस्य सर्वस्यादित्यरूपिणः॥ भूतसंजीवनी चेष्टा लोकेस्मिन् पीयते सदा॥ १२.८ ॥

चंद्राख्यकिरणास्तस्य धूर्जटेर्भास्करात्मनः॥ ओषधीनां विवृद्ध्यर्थं हिमवृष्टिं वितन्वते॥ १२.९ ॥

शुक्लाख्या रश्मयस्तस्य शंभोर्मार्तंडरूपिणः॥ घर्मं वितन्वते लोके सस्यपाकादिकारणम्॥ १२.१० ॥

दिवाकरात्मनस्तस्य हरिकेशाह्वयः करः॥ नक्षत्रपोषकश्चैव प्रसिद्धः परमेष्ठिनः॥ १२.११ ॥

विश्वकर्माह्वयस्तस्य किरणो बुधपोषकः॥ सर्वेश्वरस्य देवस्य सप्तसप्तिस्वरूपिणः॥ १२.१२ ॥

विश्वव्यच इति ख्यातः किरणस्तस्य शूलिनः॥ शुक्रपोषकभावेन प्रतीतः सूर्यरूपिणः॥ १२.१३ ॥

संयद्वसुरीति ख्यातो यस्य रश्मिस्त्रिशूलिनः॥ लोहितांगं प्रपुष्णाति सहस्रकिरणात्मनः॥ १२.१४ ॥

अर्वावसुरिति ख्यातो रश्मिस्तस्य पिनाकिनः॥ बृहस्पतिं प्रपुष्णाति सर्वदा तपनात्मनः॥ १२.१५ ॥

स्वराडिति समाख्यातः शिवस्यांशुः शनैश्चरम्॥ हरिदश्वात्मनस्तस्य प्रपुष्णाति दिवानिशम्॥ १२.१६ ॥

सूर्यात्मकस्य देवस्य विश्वयोनेरुमापतेः॥ सुषुम्णाख्यः सदा रश्मिः पुष्णाति शिशिरद्युतिम्॥ १२.१७ ॥

सौम्यानां वसुजातानां प्रकृतित्वमुपागता॥ तस्य सोमाह्वया मूर्तिः शंकरस्य जगद्गुरोः॥ १२.१८ ॥

तस्य सोमात्मकं रूपं शुक्रत्वेन व्यवस्थितम्॥ शरीरभाजां सर्वेषां देवस्यांतकशासिनः॥ १२.१९ ॥

शरीरिणामशेषाणां मनस्येव व्यवस्थितम्॥ वपुः सोमात्मकं शंभोस्तस्य सर्वजगद्गुरोः॥ १२.२० ॥

शंभोः षोडशधा भिन्ना स्थितामृतकलात्मनः॥ सर्वभूतशरीरेषु सोमाख्या मूर्तिरुत्तमा॥ १२.२१ ॥

देवान्पितॄंश्च पुष्णाति सुधयामृतया सदा॥ मूर्तिः सोमाह्वया तस्य देवदेवस्य शासितुः॥ १२.२२ ॥

पुष्णात्योषधिजातानि देहिनामात्मशुद्धये॥ सोमाह्वया तनुस्तस्य भवानीमिति निर्दिशेत्॥ १२.२३ ॥

यज्ञानां पतिभावेन जीवानां तपसामपि॥ प्रसिद्धरूपमेतद्वै सोमात्मकमुमापतेः॥ १२.२४ ॥

जलानामोषधीनां च पतिभावेन विश्रुतम्॥ सोमात्मकं वपुस्तस्य शंभोर्भगवतः प्रभोः॥ १२.२५ ॥

देवो हिरण्यमयो मृष्टः परस्परविवेकिनः॥ करणानामशेषाणां देवतानां निराकृतिः॥ १२.२६ ॥

जीवत्वेन स्थिते तस्मिञ्छिवे सोमात्मके प्रभौ॥ मधुरा विलयं याति सर्वलोकैकरक्षिणी॥ १२.२७ ॥

यजमानाह्वया मूर्तिः शैवी हव्यैरहर्निशम्॥ पुष्णाति देवताः सर्वाः कव्यैः पितृगणानपि॥ १२.२८ ॥

यजमानाह्वया या सा तनुश्चाहुतिजा तया॥ वृष्ट्या भावयति स्पष्टं सर्वमेव परापरम्॥ १२.२९ ॥

अंतःस्थं च बहिःस्थं च ब्रह्मांडानां स्थितं जलम्॥ भूतानां च शरीरस्थं शंभोर्मूर्तिर्गरीयसी॥ १२.३० ॥

नदीनाममृतं साक्षान्नदानामपि सर्वदा॥ समुद्राणां च सर्वत्र व्यापी सर्वमुमापतिः॥ १२.३१ ॥

संजीविनी समस्तानां भूतानामेव पाविनी॥ अंबिका प्राणसंस्था या मूर्तिरंबुमयी परा॥ १२.३२ ॥

अंतःस्थश्चज बहिःस्थश्च ब्रह्मांडानां विभावसुः॥ यज्ञानां च शरीरस्थः शंभोर्मूर्तिर्गरीयसी॥ १२.३३ ॥

शरीरस्था च भूतानां श्रेयसी मूर्तिरैश्वरी॥ मूर्तिः पावक संस्था या शंभोरत्यंतपूजिता॥ १२.३४ ॥

भेदा एकोनपंचाशद्वेदविद्भिरुदाहृताः॥ हव्यं वहति देवानां शंभोर्यज्ञात्मकं वपुः॥ १२.३५ ॥

कव्यं पितृगणानां च हूयमानं द्विजातिभिः॥ सर्वदेवमयं शंभोः श्रेष्ठमग्न्यात्मकं वपुः॥ १२.३६ ॥

वदंति वेदशास्त्रज्ञा यजंति च यथाविधि॥ अंतःस्थो जगदंडानां बहिःस्थश्च समीरणः॥ १२.३७ ॥

शरीरस्थश्च भूतानां शैवी मूर्तिः पटीयसी॥ प्राणाद्या नागकूर्माद्या आवहाद्याश्च वायवः॥ १२.३८ ॥

ईशानमूर्तेरेकस्य भेदाः सर्वे प्रकीर्तिताः॥ अंतःस्थं जगदंडानां बहिःस्थं च वियद्विभोः॥ १२.३९ ॥

शरीरस्थं च भूतानां शंभोमूर्तिर्गरीयसी॥ शंभोर्विश्वंभरा मूर्तिः सर्वब्रह्माधिदेवता॥ १२.४० ॥

चराचराणां भूतानां सर्वेषां धारणे मता॥ चराचराणां भूतानां शरीराणि विदुर्बुधाः॥ १२.४१ ॥

पंचकेनेसमूर्तीनां समारब्धानि सर्वथा॥ पंचभूतानि चंद्रार्कावात्मेति मुनिपुंगवाः॥ १२.४२ ॥

मूर्तयोऽष्टौ शिवस्याहुर्देवदेवस्य धीमतः॥ आत्मा तस्याष्टमी मूर्तिर्यजमानाह्वया परा॥ १२.४३ ॥

चराचर शरीरेषु सर्वेष्वेव स्थिता तदा॥ दीक्षितं ब्राह्मणं प्राहुरात्मानं च मुनीश्वराः॥ १२.४४ ॥

यजमानाह्वया मूर्तिः शिवस्य शिवदायिनः॥ मूर्तयोऽष्टौ शिवस्यैता वंदनीयाः प्रयत्नतः॥ १२.४५ ॥

श्रेयोर्थिमिभिर्नरैर्नित्यं श्रेयसामेकहेतवः॥ १२.४६ ॥


इति श्रीलिंगमहापुराणे उत्तरभागे द्वादशोऽध्यायः॥ १२ ॥



GPS LOCATION OF THIS TEMPLE CLICK HERE


हरिकेशेश्वर महादेव जंगमबाड़ी, खारी कुवां, डी.35/273, विमल आदित्य के पास (दक्षिणी भाग में) स्थित हैं।
Harikeshwar Mahadev is situated in Jangambari, Khari Kuwan, D.35/273 near Vimal Aditya (in the southern part).


For the benefit of Kashi residents and devotees:-

From : Mr. Sudhanshu Kumar Pandey - Kamakhya, Kashi


काशीवासी एवं भक्तगण हितार्थ:-                                                   

प्रेषक : श्री सुधांशु कुमार पांडेय - कामाख्याकाशी


Post a Comment

0Comments
Post a Comment (0)