Vrisharudra (वृषरुद्र - काशी में वेद मंत्र का मूर्तिमान स्वरूप)

0

Vrisharudra

वृषरुद्र

वेदों में एक मंत्र पाया जाता है जो एक दिव्य बैल (वृष) के रूप का वर्णन करता है। यह मंत्र ऋग्वेद और यजुर्वेद में प्राप्त होता है। इस मन्त्र के अनेक अर्थ पाये जाते हैं परन्तु काशी में यह मंत्र स्वयं मूर्तिमान हो एक अलग ही अर्थ प्रकट करता है। ऋग्वेद तथा यजुर्वेद के (च॒त्वारि॒ शृङ्गा॒ त्रयो॑..) मंत्र का भावार्थ जहाँ कहीं भी मिलता है, समान्यतः भावार्थ करने वालों ने केवल बैल के एक स्वरुप को केंद्र में रखकर ही अर्थों की परिकल्पना की है। शौनक उपनिषद में इस दिव्य मंत्र की यथार्थ व्याख्या भगवान शौनक ने की है। स्कन्दपुराण काशीखण्ड में स्पष्ट है कि ये भगवान रूद्र का ही एक रौद्र स्वरुप है। भगवान स्कन्द के अनुसार काशी में वृषरुद्र काशी के प्रति दुर्भावना रखने वालों को अपने खडग से काट डालते हैं तथा काशी प्रेमी भक्तों को अमृत कलश का जल प्रदान करते हैं।  

ऋग्वेद - मण्डल » 4; सूक्त » 58; मन्त्र » 3
ऋषिः - वामदेवो गौतमः , देवता - अग्निः सूर्यो वाऽपो वा गावो वा घृतं वा, छन्दः - भुरिक्पङ्क्ति, स्वरः - पञ्चमः
च॒त्वारि॒ शृङ्गा॒ त्रयो॑ अस्य॒ पादा॒ द्वे शी॒र्षे स॒प्त हस्ता॑सो अस्य। 
त्रिधा॑ ब॒द्धो वृ॑ष॒भो रो॑रवीति म॒हो दे॒वो मर्त्याँ॒ आ वि॑वेश ॥३॥
बद्ध बैल - एक वृषभ है (अस्य) इसके (चत्वारि शृंगा:) चार सींग है (त्रयः पादाः) तीन पैर हैं (द्वे शीर्षे) दो सिर हैं और (अस्य) इसके (सप्त हस्तासः) सात हाथ हैं। वह (त्रिधा बद्ध:) तीन प्रकार से बँधा हुआ है। वह (वृषभः) वृषभ (रोरवीति) रोता है। वह (महःदेव:) महादेव (मर्त्यान् प्रा विवेश) मनुष्यों में प्रविष्ट है।

स्कन्दपुराण : काशीखण्ड

गणोस्ति तत्र द्विभुजश्चतुष्पात्पंचशीर्षकः । तस्य संवीक्षणादेव पापं याति सहस्रधा ।।

तदुत्तरे मुने रुद्रश्तुःशृंगोस्ति भीषणः । त्रिपादस्तु द्विशीर्षा च हस्ताः स्युः सप्त एव हि ।।

अग्निजिह्वा बेतालकुंड के समीप ही वहाँ दो भुजाओं, चार पैरों और पाँच सिरों वाला एक गण है। इसके दर्शन करते ही पाप नष्ट होकर सहस्त्र भागों में विभक्त हो जाते हैं। हे ऋषि! उसके उत्तर में भयानक रुद्र है, जिसके चार सींग (वेद), तीन पैर (प्रातःसवन, मध्यन्दिनसवन और सायंसवन), दो सिर [प्रायणिय (प्रारंभिक संस्कार) और उदयनीय (समापन संस्कार)] हैं। उनके सात हाथ (वैदिक माप) हैं।  - [स्कंदपुराण काशीखंड (अध्याय : ६८)]

रोरूयते वृषाकारस्त्रिधा बद्धः स कुंभज । काशीविघ्रकरा ये च ये काश्यां पापबुद्धयः ।।

तेषां च संछिदां कर्तुमहं धृतकुठारकः । ये काश्यां विघ्नहर्तारो ये काश्यां धर्मबुद्धयः ।।

सुधाघटकरश्चाहं तद्वंशपरिषेककृत् । तं दृष्ट्वा वृषरुद्रं वै पूजयित्वा तु भक्तितः ।।

महामहोपचारैश्च न विघ्नैरभिभूयते । मणिप्रदीपो नागोऽस्ति तस्माद्रुद्रादुदग्दिशि ।।

हे घड़े में जन्मे! (ऋषि अगस्त्य) वह भगवान वृषरुद्र (बैल, धर्म) के आकार में और तीन तरह से (मंत्र, ब्राह्मण और कल्प के माध्यम से) बंधे हुए हैं। वे इस प्रकार चिल्लाते (रुदन करते) हैं: "जो काशी में बुरी अभिलाषा वाले हैं और जो लोग काशी में विघ्न लाते हैं, उन्हें काटने के लिए ही मैंने खड्ग धारण किया है। जो लोग काशी में पवित्र विचारों वाले हैं और जो काशी में बाधाओं को दूर करते हैं - उनके परिवारों को समृद्ध बनाने के लिये ही मैं अमृत कलश अपने हाथ में रखता हूँ। यदि कोई भक्त वृषरुद्र के दर्शन कर भक्ति और सेवा के माध्यम से उनकी पूजा-अर्चना करता है, उसे कभी बाधाओं का सामना नहीं करना पड़ता है। वृषरुद्र के उत्तरी भाग में मणिप्रदीप नाग देवता है। - [स्कंदपुराण काशीखंड (अध्याय : ६८)]


शौनकोपनिषत् 

ॐ देवासुराः संयत्ता आसन् । तेषामिन्द्रो न प्रत्यपद्यत । ते ह

वसूनेव प्रातस्सवनेषु पुरोधाय व्यजिगीषन्त । ते ह नुन्नेषु

नाराशंसेषु ऋषीणां यज्ञवास्त्वभ्यायन् हनिष्याम वा एतद्वो

यद्देवान्न पराभावयिष्यथेति । ते ह बिभ्यत एव स्तोकानुदकल्पयन्

विजेप्यध्वे वावैतानन्विति । ते ह तत ??र्तिमार्च्छंस्तानन्वितरान्

पराभावयन् । ततो हेन्द्रोऽपश्यत् । स ह गा??वीमेव प्रतिसन्दिदेश ।

सा होवाच । बिभेमि वा एतदेतेभ्यो यथैतत्परावृतन्निति ।

स प्रणवमेवास्याः पुरोगमकरोदेष वाव ते गोप्यायेति । सा होवाच ।

यदेष पुरोगाः उदेष मे भागधेयी स्यादिति । स होवाच । न ह

वावैष त्वद्भागधेयी भवति । महान्वा अस्य महिमा न ह वा महीयांसो

भागक्लृप्तिमप्याभजन्तीति । विश्वमिन्नु समन्वालभध्वमिति ।

सेनान्यास्तु प्रथमजानाप्याययिष्यसीत्योमिति होवाच । स होवाच

यत्प्रथमं नाभ्यकीर्तयो नामग्राहमथ नानुवत्स्य इति । नामग्राहमेतेन

सर्वमभिपद्यन्ते । सर्वं वा एष सर्वमश्नोतीति । अक्षरं वा

एषः । तस्मादोमित्यनुजानन्ति । ओमिति प्रतिपद्यन्त ओमित्यभ्याददत

ओमित्यभिनिधापयन्ति । तदेतदक्षरं जैत्रमभित्वरं सर्वाणि

भूतान्यभ्यात्तं यदनेकमेकं नानावर्णं नानारूपं नानाशब्दं

नानागन्धं नानारसं नानास्पर्शमिति । अथो खल्वाहुरिन्द्रो वा

चैतदक्षरम् । सर्वाणि ह वा इमानि भूतान्येतदक्षरमन्वायत्तानि

सर्वे वेदाः सर्वे यज्ञा इत्यथ खल्विन्द्रमन्वायत्तमिति ॥


स मन्द्रेणैवान्वाभक्तो विदिद्युतेऽञ्जसैव भ्रातृव्यानपहनानीति ।

तस्मान्मन्द्रं प्रातःसवनमभवद्यद्गायत्रं तद्गायत्री तद्गायत्रं

यद्वसवः तद्वसव्यम् । स ह प्रणव उवाच । यदहं सर्वं

भवानि यद्गायत्री वै पुरोगाः तत्किं मे स्यादिति । गायत्रमन्वेव

गायत्रीमन्वेव त्वा सर्वरूपमिमं कृत्वा हिङ्कुर्वन्ति । स

हापश्यन्नैतदञ्जसैव सर्वा रूपाण्येवमभिचक्षीरन्निति । स हान्तत

एवात्मानमुपसंहृत्य तावदेवाग्राहयत् । स विश‍ृङ्ग एवाभवत् ।

तस्माद्विश‍ृङ्गमेवैतदिहानुद्रवन्ति । तदाहुर्यद्वा एतस्य वीर्यं

यच्छुक्रं यज्ज्योतिर्यदमृतं यदजर्यं तदवरमिति । तस्मात्तत

एवातो ज्योतिरमृतमजर्यं प्रतिपद्यन्ते । ततो हासुराः पराभवन् ।

स एष इन्द्रः सर्वं यद्गायत्री उद्गीथो वसवः प्रातस्सवनमिति ।

तदाहुः । सर्वं वा एतदिन्द्रो यज्जगद्यथैवेति ॥


ततो हासुराः पुनरेवोदयन्ति । ते ह माध्यन्दिनस्यैव सवनस्य

पवमानेषु यज्ञवास्त्वभ्यायन् । तेषां जरितारो बिभ्यत एव

वसतीवरीरुपाकल्पयन् । ते ह ताभिरेव जिघांसन् । तेषामिन्द्रो रुद्रानेव

सेनान्योऽकः । ते हाक्षीयन्त । स ह त्रिष्टुभमेव प्रतिसन्ददत् ।

साब्रवीत् । बिभेमि वा एतदेतेभ्यो यथौजीयांसो बलीयांस इमे

पराभवन्निति । स ह प्रणवमेवोवाच पुरोगायमेवारभस्वेति ।

सोऽब्रवीत् । किं मेऽतः स्यादिति । यदहं स त्वं ममैव रूपेण

न्यूंखयिष्यन्ति त्वामिति । स हापश्यत् । सर्व एव न्यूंखयन्तो

मामभिचक्षीरन्निति । स ह सर्वमेवात्मानमुपसंहृत्य श‍ृङ्ग

एवागूहयत् । स ह विश‍ृङ्ग एवाभवत् । तस्मादित्थैव न्यूंखयन्ति ।

ततो हासुराः पराभावयन् । तस्माद्रुद्रानेव माध्यन्दिनं सवनं

त्रैष्टुभं चेति ॥


ते हासुराः पुनरेवोदपतिष्यन्त । ते ह तृतीयस्येह सवनस्य

पवमानेषु यज्ञवास्त्वभ्यायन् । तेषामिमे बिभ्यत एवांशूनुपाकल्पयन् ।

ते ह तैरेव देवानपाजिघांसन् । तेषामिन्द्रो जगतीमेव प्रतिसन्दिदेश ।

साब्रवीत् बिभेमि वा एतदेतेभ्यो यथौजीयांसो बलीयांस इमे

परावृतन्निति । तस्या इन्द्रः प्रणवमेव पुरोगामकरोत् । स होवाच ।

किं मेऽतः स्यादिति । स होवाचेन्द्रो यत्त्वामुद्गीथेनोपावनेष्यन्ते तेनैव

ते कल्पयिष्यन्तीति । सेनान्यो हि तर्ह्यादित्यानकल्पयन् तस्माज्जागतं

तृतीयसवनमादित्यानाम् । स हापश्यदादित्यो वा उद्गीथोऽसौ

खल्वादित्यो ब्रह्म । न ह वा एनं मिथु चिदेमीति । स ह स्वेनैव

रूपेणादित्यानगच्छत् । स ह तेनैव वज्रेणासुरान् पराभावयन् । तद्यत्

स्वेनैव रूपेणाविस्तरामगच्छत्तत्प्रतिष्ठामविन्दत् । प्रतिष्ठा ह वा

एषा यत्प्रणवः । सर्वाणि ह वा इमानि भूतानि प्रणव एव प्रतितिष्ठन्ति ।

तस्य ह वा एषा प्रतिष्ठा यत्रासावात्मानमुपसंहृत्याजूगुपत् ।

तस्मात्तदेवोपन्वीतेति तदेवोपासीत । तदेतदृचाभ्युक्तम्--

चत्वारि श‍ृङ्गा त्रयो अस्य पादाः द्वे शीर्षे सप्तहस्तासो अस्य ।

त्रिधा बद्वो वृषभो रोरवीति महो देवो मर्त्याꣳ आविवेश ॥ इति ॥


यदिमास्तिस्रोथासाविति चत्वारीति । यदिमे द्वे एवाक्षरे त्रिभिरुपन्वन्ति तत्त्रय इति । यत्प्रत्यक्षं तद्वै इति । यदुद्गीथं सप्तभिरभिप्रपद्यन्ते तत्सप्तेति । अथो खल्वाहुः । सप्तभिरेनं स्वारयन्तीति । यदीमान् त्रीनभिधत्ते तत्त्रिधेति । यदिन्द्र एवोद्गीथस्तद्वृषभ इति । तदेतदृचाभ्युक्तम्--

मरुत्वन्तं वृषभं वावृधानम् । यद्द्रावयन्ति तद्रोरवीति ॥

यदेष सर्वाणि भूतान्यनुप्रविष्टस्तन्मर्त्याꣳ आविवेशेति ।

तस्मादोमित्येकाक्षरमुद्गीथमुपासीतेत्याह भगवान् शौनकः शौनक इति ॥


॥ इति शौनकोपनिषत् समाप्ता 


GPS LOCATION OF THIS TEMPLE CLICK HERE

वृषरुद्र हरतीरथ के पश्चिमी भाग मे एक मंदिर (के.४६/१४७) के भीतर स्थित है।
Vrisharudra is located in the western part of Harathiratha, A Temple K.46/147.

For the benefit of Kashi residents and devotees:-

From : Mr. Sudhanshu Kumar Pandey - Kamakhya, Kashi


काशीवासी एवं भक्तगण हितार्थ:-                                                   

प्रेषक : श्री सुधांशु कुमार पांडेय - कामाख्याकाशी

॥ हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥


Post a Comment

0Comments
Post a Comment (0)